साम्प्रतं महती उद्योगसमस्या सर्वत्र दरीदृश्यते। सर्वे चिन्तयन्ति यत् आत्मन: भविष्यजीवनं कथञ्चित् सुन्दरं सुखमयं च स्यात्। तदर्थं सुयोग्यनिर्देशनस्य अपेक्षा वर्तते। व्यवसायिकनिर्देशनकर्मणि य: निस्नात: तस्मात् व्यवसायिकनिर्देशनं ग्रहणीयम्। व्यक्ते: सामर्थ्य इच्छानुगुणं निर्देशनं दद्यात्। आधुनिकयुगे बहवः जना: शिक्षिता: सन्तोऽपि आजीविका प्राप्तये असमर्था: दरीदृश्यन्ते। समाजस्य औद्योगिकसंस्थानाञ्च आवश्यकतानां पूर्तये अशक्ता: भवन्ति। शैक्षिकसंस्थासु छात्रेभ्य: विभिन्न-व्यवसायानां ज्ञानप्रदानम्, आत्मन: सामर्थ्यानुसारं योग्यव्यवसायचयनम्, चितव्यवसायाय योग्यप्रशिक्षणप्रदानम् इत्यादिकार्येषु क्रियमाणसाहाय्यम् उक्तसमस्यानां समाधानाय मार्गं भवितुमर्हति।
जनविस्फोटः, सर्वकारस्य जीविकां प्रति यथार्थचिन्तनस्य अभाव:, अवैज्ञानिकी शिक्षाव्यवस्था,यथार्थनिर्देशकस्य अभावः, यथार्थव्यवसायिकनिर्देशनस्य अभाव: जीविकासमस्याया: कारणम्। एतादृशीसमस्या निराकरणाय व्यवसायिकनिर्देशनस्य अपेक्षा वर्तते।