International Journal of Sanskrit Research
2019, Vol. 5, Issue 5, Part A
आचार्ययोर्भामह-दण्डिनोर्दृष्टौ उपमालंकारविवेक
सञ्जय-भट्टाचार्य्य
भामह-दण्डिनावालंकारिकौ संस्कृतालंकारप्रस्थाने मुख्यौ आचार्यौ । तेन अलंकारस्वरूपं विवृण्वता अलंकाराणां भेदाः सोदाहरणं प्रपञ्चिताः। तत्र भामहमते, देशकालक्रियादिभिः विरुद्धेन उपमानेन सह उपमेयस्य गुणलेशेन यत् साम्यं सा उपमेति । उपमालंकारं पर्यालोच्य भामहेन एकवाक्यगतोपमानोपमेयभावस्य उदाहरणानि प्रदर्श्य नानावाक्यनिष्ठोपमानोपमेयभावंप्रतिपादयितुं प्रतिवस्तूपमानामकः उपमाभेदः लक्ष्यते । मेधावीरुद्रकथिताः सप्त उपमादोषाः उदाहरणलक्षणैः पृथक् वर्णिताः भामहाचार्येण । अपरतः, दण्डिना काव्यादर्शे द्वितीये परिच्छेदे उपमालंकारं परिष्कुर्वता निगदितम् – "यथाकथञ्चिद् सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्या: प्रपञ्चोऽयं निदर्श्यते"।।इति । काव्यनिष्ठम् अलौकिकचमत्कारजनकं सादृश्यमुपमेति फलितम्। परं नोल्लेख्यं यच्चमत्कारजनकं सादृश्यं नोपमालंकार:। यथा – ‘गौरिव गवय’ इत्यत्र नोपमा। उपमाया: लक्षणं निरूप्य पुनः दण्डिनोपमायाः द्वात्रिशद्भेदाः प्रदर्शिताः। उपमा निखिलालंकारमातृका। कविवंशस्य मातेति उपमा राजशेखरीयोक्तेरनुरूपमेव तात्पर्यमस्माकं चेतसि प्रतिभाति।
How to cite this article:
सञ्जय-भट्टाचार्य्य. आचार्ययोर्भामह-दण्डिनोर्दृष्टौ उपमालंकारविवेक. Int J Sanskrit Res 2019;5(5):22-25.