International Journal of Sanskrit Research
2019, Vol. 5, Issue 4, Part E
शिशुपालवधे काव्यतत्त्वालोचनम्
मृत्युञ्जयः गराँइ
कविकर्मणः काव्यस्य स्वरूप-कारण-प्रयोजन-रीति-ध्वनि-रसादीनामालोचनमेव काव्यतत्त्वा-लोचनम्। काव्यतत्त्वालोचनं न केवलं अलंकारशास्त्रे परिप्राप्यते अपि तु महाकवीनां तदीयकाव्येषु एव दृश्यते। महाकविमाघप्रणीते शिशुपालवधमहाकाव्ये माघकाव्ये वा काव्यतत्त्वस्य बहुविधाः सिद्धान्ताः समुपन्यस्ताः। अत्र काव्यस्य स्वरूप-शब्दवैचित्र्य-अलंकार-गुण-रस-चमत्कारित्व-नाटकीयवैशिष्ट्यादयः बहुविधाः विषयाः पर्यालोचिताः। लेखेऽस्मिन् विषयोऽयं सम्यकतया उपस्थाप्यते।
How to cite this article:
मृत्युञ्जयः गराँइ. शिशुपालवधे काव्यतत्त्वालोचनम्. Int J Sanskrit Res 2019;5(4):281-285.