International Journal of Sanskrit Research
2019, Vol. 5, Issue 4, Part D
श्रीपतिपद्धत्युक्तरीत्या अंशकायुर्दायसाधनक्रमः
Dr.Vijayananda Adiga B
जातककर्मपद्धतिः इत्याख्यः ग्रन्थः श्रीपतिना प्रणीतः। त्रिस्कन्धज्ञस्य अस्य स्थितिकालः ९६०-मितः शकाब्दः इति अनुमीयते । अस्य ग्रन्थस्य प्रचुरप्रसारात् कालान्तरे “श्रीपतिपद्धतिः” इत्येव अयं ग्रन्थः प्रसिद्धिमवाप। कथं जातकं निर्मातव्यम्, कथं ग्रहाणां बलं निरूपणीयम्, कथं वा तेन शुभाऽशुभफलप्रवचनं कर्तव्यं चेति स्फुटतया ग्रन्थेऽस्मिन् श्रीपतिः निश्चिचाय। अपि च अस्मिन् ग्रन्थे प्रधानतया आयुषः साधनं कथं कर्तव्यमिति बहुभिः प्रकारैः विस्तरशः श्रीपतिः प्रोवाच। तत्र आयुस्साधने अंशकायुर्दायः अपि अन्यतमः प्रकारः वर्तते। आयुर्दायेषु अंशकायुर्दायः एव अत्यन्तं प्रधानः इति बृहज्जातकादिषु होराग्रन्थेषु वराहादिभिः तन्महत्त्वमुररीकृतं विद्यते। अतः तत्साधनक्रमः अस्मिन् लेखने श्रीपतिजुष्टेन पथा उपवर्णितः वर्तते।
How to cite this article:
Dr.Vijayananda Adiga B. श्रीपतिपद्धत्युक्तरीत्या अंशकायुर्दायसाधनक्रमः. Int J Sanskrit Res 2019;5(4):193-196.