International Journal of Sanskrit Research
2019, Vol. 5, Issue 4, Part D
योगशास्त्रवेदान्तदर्शनयोः साम्यम्
Dr. Hariprasad K
वेदाः अपौरुषेयाः अनादयः। अपौरुषेयत्वात् पुरुषकृतदोषरहिताः। अनादित्वात् अविनाशित्वम्। वेदेभ्य एव समुपबृंहितमिदं जगत्। वेदानाम् अन्तिमो भागः वेदान्तः उपनिषद् इत्युच्यते। उपनिषत्सु ब्रह्मतत्वं प्रतिपाद्यते । त्रिकालाबाध्यं तत्त्वं ब्रह्म। अत एव नित्यं सत्यम् च। अत एव अन्यत् सर्वं अनित्यं असत्यञ्च। नित्यस्य शाश्वतस्य ब्रह्मणः अवाप्तिरेव मोक्षः। तच्च जीवब्रह्मणोरैक्येन सम्भवति। जीवब्रह्मणोरैक्यं तु अज्ञाननिवृत्या, ब्रह्मज्ञानावाप्त्या भवति। योगशास्त्रे यमादाभ्य समाधिपर्यन्तं साधनामार्गः यः प्रतिपादितः सः वेदान्तसम्मतः कस्मिन् कस्मिन् अंशे इति प्रतिपादनमत्र विस्तरशः कृतः। “ऋते ज्ञानान्न मुक्तिः” इति श्रुतेः योगप्रतिपादितनिर्विकल्पकसमाधिना मुक्तिः मुक्तिः न इति आहत्य शोधस्य सारः।
How to cite this article:
Dr. Hariprasad K. योगशास्त्रवेदान्तदर्शनयोः साम्यम्. Int J Sanskrit Res 2019;5(4):184-186.