अथ शिक्षणं शिक्षकस्य कर्तव्यकर्म वर्तते। इदं च शिक्षणम् एका विशिष्टा प्रक्रिया वर्तते इति तु विदितचरमेव। शिक्षणप्रक्रियायां साफल्यसंपादनाय आधुनिकाः शिक्षाशास्त्रज्ञाः प्रविधिशास्त्रमप्यवलम्बन्ते। प्रविधिशास्त्रे शिक्षणस्य वैज्ञानिकं विश्लेषणं क्रियते। शिक्षणस्य त्रयः स्तराः शिक्षणस्य वैज्ञानिकविश्लेषणेनैव नयनपथमवातरन्। स्मृतिस्तरः, बोधस्तरः, चिन्तनस्तरश्चेति शिक्षणस्य त्रयः स्तराः सुप्रसिद्धाः सन्ति।
स्मृतिस्तरे शिक्षणं छात्राणां स्मरणशक्तेः संवर्धनाय उपकरोति। प्राथमिकस्तरेऽस्मिन् शिक्षकस्यैव प्रधानं पात्रं वर्तते न तु छात्रस्य। अस्मिन् स्तरे बालेभ्यः कंठस्थीकरणाय शिक्षितविषयस्य च प्रत्यास्मरणाय बलं दीयते। स्तरोऽयं बोधचिन्तनस्तरयोः पूर्ववर्ती वर्तते। स्मृतिस्तरशिक्षणात् परमेव बोधस्तरशिक्षणं प्रस्तुतीक्रियते।
बोधस्तरशिक्षणं यद्यपि द्वितीयस्थानीयं वर्तते तथापि पूर्वोत्तरवर्तिनोः सम्पर्कसेतुरिव कार्यं कुरुते। अस्मिन् स्तरे बालाः पूर्वाधीतस्य विषयस्य विभिन्नेषु प्रसङ्गेषु अनुप्रयोगक्षमतां प्राप्नुवन्ति। विशिष्य किशोराणां स्तरः बोधस्तरे अन्तर्भवति। अत एव अस्य स्तरस्य महन्महत्त्वम् उपकल्पितं वर्तते। निर्दिष्टविषये तन्नाम शिक्षितविषये नैपुण्यम् अथवा पाण्डित्यं संपादयितुं पूरकं शिक्षणम् अस्मिन् स्तरे दीयते। शोधपत्रेऽस्मिन् बोधस्तरस्य वैशिष्ट्यानि समस्याश्च सोदाहरणं निरूप्यन्ते।