स्वपरिवेशे विद्यमानस्य विशिष्टतत्त्वस्य विषये सूक्ष्मरूपेण जागरूकतायाः प्राप्तिः अवधानं भवति । किन्तु अनिच्छतोऽपि पुरुषस्य मानसिकघटनासु बाह्यघटनासु च आकर्षणेन तस्य अवधानं केन्द्रीकृतं भवति । प्रत्यक्षीकरणार्थम् (Perception) अवधानम् अनिवार्यं भवति । आहत्य इदमित्थं वक्तुं शक्यते यत् यदा किमपि उद्दीपकं वस्तु अथवा घटना अवधानस्य केन्द्रस्थाने यदा समायाति तदा एव पुरुषस्य प्रत्यक्षीकरणं जायते । इत्युक्ते तद्वस्तुविषयकज्ञानं पुरुषः प्राप्नोति ।
अस्माकं चक्षुषोः पुरतः बहूनि वस्तूनि भवन्ति चेदपि कसिं्मश्चिदेव वस्तुनि अस्माकमवधानं केन्द्रीकृतं भवति । तत्रापि छात्रसमूहे यदि एकस्य छात्रस्य उपरि अवधानं गतं चेत् पूर्णरूपेण तस्य छात्रस्य शरीरं पश्यामः इति तु न। तस्य किमप्यङ्गं, ध्वनिं, क्रियां वा साक्षात्कुर्मः । ईदृशस्य अवधानस्य किं कारणं स्यादिति विचार्य, अवधानकेन्द्रीकरणस्य उपायाः लेखेऽस्मिन् आबद्धाः ।