International Journal of Sanskrit Research
2019, Vol. 5, Issue 4, Part B
संस्कृतभाषाशिक्षणाय सूचनासम्प्रेषणप्रविधिः
Dr. Hariprasad K
प्राचीनकाले गुरुकुलप्रणाल्यां तु स एव शिक्षां विन्दते स्म यस्य विविदिषा वर्तते । किन्तु सम्प्रति तथा नास्ति परिस्थितिः । इच्छुकः अनिच्छुकः श्रद्धावान् अश्रद्धावान् इत्यादिभेदैः विनैव शिक्षायाः प्राप्तेः अधिकारः सर्वेषाम् सम्प्रति लोकतन्त्रात्मके देशेऽस्माकं वर्तते । अतः कक्ष्यायां अत्यधिकसंख्याकानां सर्वविधच्छात्राणाम् अवगमनं यथा स्यात् तथा बोधयितुम् उपायाः चिन्तनीयाः, चिन्तिताश्च अनुष्ठेयाः । संस्कृतभाषाशिक्षणाय अपि तादृशाः उपायाः अपेक्ष्यन्ते। सूचनासम्प्रेषणप्रविधिः अस्यां दिशि एकः उत्तमः उपायः भवितुमर्हति इति अस्मिन् लेखे निरूपयितुं यत्नो व्यधायि।
How to cite this article:
Dr. Hariprasad K. संस्कृतभाषाशिक्षणाय सूचनासम्प्रेषणप्रविधिः. Int J Sanskrit Res 2019;5(4):74-76.