International Journal of Sanskrit Research
2019, Vol. 5, Issue 2, Part A
रोगविनिश्चये प्रमेहः आयुर्वेदोक्तदिशा चिकित्सातत्त्वविमर्शः
गोपाल आचार्यः
भारतवर्षस्य चिकित्साविज्ञानं प्राचीनकालादारभ्य समुन्नतिशिखरं समाकर्षति। अत्रकृते चिकित्साविज्ञाने आयुर्वेदोऽवदानं स्थापयति। रोगविनिश्चयं रोगचिकित्सानिर्धारणमेवायुर्वेदशिक्षाया मुख्योद्देश्यरूपेण भाति। रोगप्रशान्तिरेवास्य मुख्यप्रयोजनम् ।अतो भारतवर्षस्य सर्वोत्कृष्टसम्पद् भेषजविद्या तथायुर्वेदशास्त्रम्। आधिव्याधिप्रपीडिते असारे संसारेऽस्मिन् विशेषतया प्रमेहव्याधिना प्रपीडितानां मानवानां संख्याधिकत्वमुत्तरं वृद्धिं प्राप्नोति । साम्प्रतं प्रायशः प्रत्येकं मानवाः स्वरोगस्य मूलतः उपशमनाय "एलोप्याथी"-औषधादिकं परित्यज्यायुर्वेदोक्तदिशा तत्तद्रोगस्य चिकित्सायै "होमिओप्याथी" औषधीनां सेवनमेव कुर्वन्ति पार्श्वप्रतिक्रियाया मुक्तेरिति हेतोर्बाहुल्येन। अत्र आयुर्वेदस्य श्रेयस्करत्वं प्रतिपादितमेव। केवलमायुर्वेदीयमूलकभेषजौषधसेवनेन पथ्यादिप्रयोगेन अस्मात् रोगात् चिरं निर्मूलता सुस्थतरजीवनं च लभ्येते। अतः आयुर्वेदशास्त्रस्य विविधेषु कायचिकित्साप्रधानेषु ग्रन्थेषु स्थाने स्थाने प्राप्यमानेन "प्रमेह"-व्याधेः चिकित्साविषयकतत्त्वपर्यालोचनेन रोगादस्मात् आयुर्वेदप्राणातुराणां चिकित्सासिद्धये सहायतां सम्पादयिष्यति। इति शिवम् ।
How to cite this article:
गोपाल आचार्यः. रोगविनिश्चये प्रमेहः आयुर्वेदोक्तदिशा चिकित्सातत्त्वविमर्शः. Int J Sanskrit Res 2019;5(2):16-21.