व्याकरणशास्त्रीयदार्शनिकग्रन्थेषु शब्दस्य यत्स्वरूपमुपवर्णितं वर्तते तत् प्राधान्येन ध्वन्यात्मकं स्फोटात्मकञ्चेति द्विधैव परिगण्यते। तत्र श्रोत्रेन्द्रियेण यो गृह्यते स ध्वन्यात्मकः शब्दः प्रथमः। अयं ध्वनिरेव शब्दशब्देन व्यवह्रियते लोके । अत एव महर्षिणा पतञ्जलिना स्पष्टमुक्तं यत् 'प्रतीतपदार्थको लोके ध्वनिः "शब्द" इत्युच्यते। तद्यथा "शब्दं कुरु" "मा शब्दं कार्षीः " “शब्दकार्ययं माणवकः” इति ध्वनिं कुर्वन्नेवमुच्यते तस्माद् ध्वनिः शब्दः' इति।1
स्फोटरूपश्चेतनो नित्यो विभुश्च ध्वनिनाऽभिव्यज्यमानः शब्दो द्वितीयः। स्फुट्यते ध्वनिनाऽभिव्यज्यते यः सः स्फोटः। अत्र ध्वन्यात्मकः शब्दो व्यञ्जकः तथा स्फोटात्मकः शब्दो व्यङ्ग्यः।
शब्दार्थयोः सम्बन्धसन्दर्भे महाभाष्यवाक्यपदीययोः कृत्स्नमालोडनं विधाय शब्दार्थसम्बन्धस्वरूपसमीक्षायामेत-देव वक्तुं शक्यते यत् पतञ्जलिमतेन शब्दार्थसम्बन्धः नित्यः स्वाभाविकश्चास्ति। एष सम्बन्धः अभेदाऽध्यासरूपः स्वीकृतः तथा शब्दार्थयोः सम्बन्धे लोक एव कारणमस्ति। द्वावपि शब्दार्थौ अभिन्नौ, अतः अभेदरूप एव सम्बन्धः स्वीकृतः।
भर्तृहरिणाऽपि महाभाष्यानुसारं शब्दार्थसम्बन्धविषयकं स्वीयं विवेचनं प्रस्तुतम् । एष आचार्योऽपि शब्दार्थयोः सम्बन्धस्य नित्यतायामेव विश्वसिति। एतेन शब्दार्थसम्बन्धस्य अत्यन्तपरतन्त्रता स्पष्टमुक्ता। भर्तृहरिमते शब्दार्थसम्बन्धः शक्तिरूपः अनुमेयः, न तु साक्षात् प्रत्यक्षं निर्देष्टुं शक्यः। संयोगसमवायौ शब्दार्थयोः सम्बन्धौ नैव भवितुमर्हतः, अतस्तयोः निरासः कृतः। षष्ठीविभक्तिरूपकार्याद् शब्दार्थसम्बन्धः विज्ञातो भवति। उपकार्योपकारकरूपः सच सम्बन्धः भर्तृहरिणा योग्यतारूपः कार्यकारणरूपश्च द्विधोक्तः। सङ्केतश्च पुनः नास्ति सम्बन्ध इति भर्तृहरेरभिप्रायः।