व्याकरणशास्त्रं भाषायाः प्रत्यंगं सूक्षमतया विश्लेषणं करोति। प्रतिशब्दं प्रकृतिप्रत्ययविभागः भवति। प्रतिविभागं मूलप्रकृतिभाागाश्रितानां सहस्रशः शब्दानां बोधनञ्च कारयति। अत्र येषां रुचिरस्ति ते विवेचनां कृत्वा कृत्वा अनिर्वचनीयमानन्देन सहैव ऐतिहासिकं तथ्यमपि प्राप्नुवन्ति। परन्तु येषां रुचिरत्र नास्ति ते व्याकरणं भारस्वरुपं परमं कठिनं जानन्ति। संदर्भेऽस्मिन् महर्षिणा पतञ्जलिना महाभाष्ये उद्धृतः [1]-
‘‘वेदान्नो वैदिकाः शब्दाः
सिद्धा लोकाच्च लौकिकाः।
अनर्थकं व्याकरणमिति।’’