International Journal of Sanskrit Research
2018, Vol. 4, Issue 6, Part B
साध्वसाधुशब्दप्रयोगविमर्शः
डा. जयकृष्ण
वर्तमाने संस्कृतबान्धवानां सङ्कल्पशक्तेः कारणात् संस्कृतभाषया निरन्तरतया व्यहारात् च संस्कृतात् इतरः लोकः अस्मात् भ्रमात् तु बहिः आगतः अस्ति यत् संस्कृतभाषा कदापि व्यावहारिकभाषा नासीदेव इति। महाभारतस्य कालात् परम् अस्माकं भारते यथा उत्तरोत्तरं विभिन्नैः कारणैः संस्कृतेः नाशः जातः तथैव संस्कृतभाषा अपि व्यवहारपथात् अपगता। मानवस्य परिश्रमस्य क्षमतायाः अभावकारणेन संस्कृतस्य अल्पज्ञतया विभिन्नाः भाषाः च समुद्भूताः। आसु विभिन्नासु भाषासु विद्यमानः संस्कृतशब्दराशिरेव संस्कृतात् आसामुत्पत्तिं प्रमाणयति। अस्तु! अधुना अपि महतः प्रयासात् परं संस्कृतभाषा व्यवहाररूढा अस्ति इति तु महानेव विशेषः परन्तु वर्धमाने संस्कृतस्य व्यवहारे कियता प्रामाण्येन दोषरहितः शुद्धः संस्कृतव्यवहारः जायमानः अस्ति इत्यत्र अस्ति काचित् विमर्शस्य आवश्यकता। अधीतशास्त्रः कश्चित् सूक्ष्मेक्षिकया अधीतस्य शास्त्रस्य प्रायोगिकपक्षं पुरस्कृत्य विनियोगं यदि करोति तर्हि संस्कृतव्यवहारे क्व असङ्गतिः जायमाना अस्ति कथं च परिष्कारः कर्तव्यः इत्यादि स्पष्टं भवति। अतः एतादृशाय परिष्काराय चिन्तनं तु अपेक्षितम् एव भवति। तादृशस्य चिन्तनस्य एव प्रयासः अत्र लेखे कृतः अस्ति। यद्यपि लेखकः अल्पज्ञवैयाकरणः तथापि लोके एव श्रूयमाणानां संस्कृतव्यवहारदोषाणां सङ्कलनं विधाय तद्दोषाणां वारणाय कश्चन प्रयत्नः यथामति अत्र कृतः वर्तते।
How to cite this article:
डा. जयकृष्ण. साध्वसाधुशब्दप्रयोगविमर्शः. Int J Sanskrit Res 2018;4(6):78-82.