International Journal of Sanskrit Research
2018, Vol. 4, Issue 5, Part A
लौकिकालौकिकसुखसम्पादनत्वेन पुराणेषु विहिततुलसीसेवनस्य विमर्षात्मकमध्ययनम्
विघ्नेश्वरभट्टः
विदितमेव सर्वेषां समेषाम् अत्र भवतां भवतां महतां जीवोऽयं बहुपुण्यवशेनैव मानवशरीरमेतीति। मानवजन्मन उद्देश्यं तावत् पुरुषार्थसम्पादनमित्यत्र नास्ति नैकमत्यम्। निषिद्धकर्मानुष्ठानेन आत्मा पापयुक्तो भवति पापजन्यं दुःखं शरीरमाध्यमेन अनुभवति च। विहितकर्मानुष्ठानेन लौकिकालौकिकं सुखं आप्नोत्यात्मा इत्यत्र अस्ति विनिगमकं प्रमाणम्। कदाचिन्मानवः अज्ञानवशात् पापमनुतिष्ठति तथा च पापविमुक्तये मार्गान् अन्विषति च। अस्माकं तावत् नित्यनैमित्तिककाम्यकर्मणां ज्ञानसङ्ग्रहः श्रुतिस्मृतिपुराणावलोकनेनैव सिध्यति। पुराणेषु अनेके विषयाः विचारिताः निर्णीताश्च। तेषु अन्यतमोऽयं तुलसीविचारोऽपि।
How to cite this article:
विघ्नेश्वरभट्टः. लौकिकालौकिकसुखसम्पादनत्वेन पुराणेषु विहिततुलसीसेवनस्य विमर्षात्मकमध्ययनम्. Int J Sanskrit Res 2018;4(5):09-11.