International Journal of Sanskrit Research
2018, Vol. 4, Issue 2, Part A
पाणिनीयनयेऽसिद्धत्वविमर्शः
रुबेल-दासः
पाणिनीयव्याकरणेऽसिद्धशब्दस्य प्रयोगो दृश्यते। महर्षि-पाणिनिना अष्टाध्याय्यां त्रिषु सूत्रेषु असिद्धशब्दस्य प्रयोगः कृतः। तानि च- (क) “पूर्वत्रासिद्धम्” (८/२/१) (ख) “षत्वतुकोऽसिद्धः” (६/१/८६) (ग) “असिद्धवदत्राभात्” (६/४/२२)। इतोऽपि पाणिनीयसम्प्रदाये स्वीकृतपरिभाषासु “असिद्धं बहिरङ्गमन्तरङ्गे” (परिभाषा ५०) इति परिभाषायां पदस्यास्य प्रयोगो दृश्यते। पाणिनिना व्यवहृतं शब्दसंस्कारे सहायकमन्यतमं कौशलममुमाश्रयीकृत्य वैयाकरणैः चर्चा क्रियते। वस्तुतो विषयस्यास्य चर्चायां केचन प्रश्नाः समुद्यन्ति। ते च- किं नामासिद्धत्वम्? अस्य प्रयोजनं किम्? शास्त्रेऽसिद्धत्वस्य को पक्षो ग्राह्यः? इति। विषयेऽस्मिन् समुदितप्रश्नानां समाधानामाश्रित्य प्रबन्धोऽयं लिखितः। पाणिनीयशास्त्रेऽसिद्धत्वमिति पारिभाषिकशब्दविषये यो विचारो विद्यते, सः सविस्तारमत्र स्थापितः। असिद्धत्वविषये मया यथाशास्त्रं सिद्धान्तो गृहीतः। आचार्य-नागेशेन लघुशब्देन्दुशेखरे “पूर्वत्रासिद्धम्” (८/२/१) इति सूत्रस्य व्याख्यायां सिद्धशब्दस्य बहुविधार्थोपस्थापनेन तद्वीपरीतस्यासिद्धशब्दस्याप्रवृत्तमनिष्पन्नं वेत्यर्थः स्पष्टीकृतः। इतोऽपि शास्त्रत्वासिद्धपक्षे विशेषस्थलमुक्त्वा तत्र सूत्रस्य कीदृशोऽर्थः स्यात्? सोऽपि परिष्कृतः। अतोऽसिद्धशब्दस्यार्थः शास्त्रे द्विधा प्रयुङ्क्ते स्म, १. अविद्यमानम् २. अनिष्पन्नम्। असिद्धत्वविधायकसूत्रेषु असिद्धवचनस्य प्रयोजनविषये प्रतीयते यत्- असिद्धकरणस्य प्रयोजनद्वयम्। प्रथमत आदेशलक्षणस्य प्रतिषेधार्थम्। द्वितीयत उत्सर्गलक्षणस्य भावार्थम्। असिद्धत्वे कः पक्षो ग्राह्यः स्यादिति प्रश्ने भट्टोजिदीक्षितेन मनोरमायां कार्यत्वासिद्धे मनोरथादौ दोषान्प्रदर्श्य शास्त्रत्वासिद्धपक्ष आश्रीयते। तथाहि तेनोक्तम्- “एतेन त्रिपाद्यां विहितं कार्यमसिद्धमित्यादिः प्राचां ग्रन्थः परास्तः” इति। नागेशेन कार्यत्वासिद्धे ‘अमू’ इत्यादिरूपासिद्धिरूपदोषान् दर्शयित्वा शास्त्रत्वासिद्धपक्षः स्वीकृतः। भाष्यकारेण “असिद्धवदत्राभात्” (६/४/२२) इति सूत्रभाष्ये शास्त्रत्वासिद्धपक्षः सिद्धान्तितः। अतोऽसिद्धत्वे शास्त्रत्वासिद्धपक्षो वैध इति प्रतीयते।
How to cite this article:
रुबेल-दासः. पाणिनीयनयेऽसिद्धत्वविमर्शः. Int J Sanskrit Res 2018;4(2):62-67.