Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2018, Vol. 4, Issue 2, Part A

भूषणसारदिशा शक्तिस्वरूपविचारः

Dr. Giridhari Panda

“शाब्दबोधं प्रति शक्तिग्रहमेव कारणम्” इति धिया शब्दस्य शक्तिः सर्वैः शास्त्रकारैः स्वीक्रियते। गृहीतशक्तिकात् पदात् शाब्दबोधस्य दर्शनात् अगृहीतशक्तिकात् पदात् शाब्दवोधस्यादर्शनात् शाब्दबोधं प्रति शक्तिग्रहस्य कारणता स्वीक्रियते । येन 'गुड' इत्युक्ते गुडपदेन मधुरत्वस्य प्रतीतिर्न भवति । तस्याः शक्तेः आश्रयरूपेण स्फोटरूपं शब्दमेवामनन्ति वैयाकरणाः । शाब्दवोधः कारणत्वेन अपेक्षिता एषा वृत्तिः शक्तिः लक्षणा व्यञ्जना' चेति भावेन त्रिधा विभज्यते । तत्र 'शक्ति इति कः पदार्थ' इति विवेचनावसरे शास्त्रकारेषु वैमत्यं परितक्ष्यते । मुख्यतः विषयेऽस्मिन् वैयाकरण-नैयायिकयोः विवादः समधिकः । प्राचीननैयायिका: ईश्वरेच्छारूपां शक्तिं स्वीकुर्वन्ति । नव्यनैयायिकाः केवलमिच्छामेव शक्तिरिति प्रतिपादयन्ति। तत्रापि वैयाकरणेषु भिन्नं मतं परिलक्ष्यते। वैयाकरणाः शक्तेः आश्रयरूपेण स्फोटरूपं शब्दमेवामनन्ति । नागेशः पदपदार्थयोः सम्बन्धान्तरमेव शक्तिरिति निरूपयति । भर्तृहरिरपि पदपदार्थयोः तादात्मरूपसम्बन्ध एव शक्तिः इति स्वीकरोति । तत्र आचार्यः कौण्डभट्टः वोधजनकता एव शक्तिरिति प्रतिपादयति। कौण्डभट्टस्य मतानुसारेण बोधजनकतैव हेतुः । अर्थबोधजनकतावच्छेदकत्वेन सङ्केतस्य हेतुत्वस्वीकारापेक्षया बोधजनकताया एव हेतुत्वे लाघवम् । येन वैयाकरणानामपि अभिष्टः सिद्धो भवति ।अतः कौण्डभट्टस्य शास्त्रीयतथ्यमुरोरीकृत्य समीक्षणात्मकेन मार्गेण शोधप्रबन्धोSयं विकसितः।
Pages : 57-61 | 432 Views | 76 Downloads
How to cite this article:
Dr. Giridhari Panda. भूषणसारदिशा शक्तिस्वरूपविचारः. Int J Sanskrit Res 2018;4(2):57-61.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.