शोधलेखेऽस्मिनासक्तिविषयमधिकृत्य शास्त्रसम्मता: विचारा: उपस्थापिता: वर्तन्ते । तत्र ‘अव्यवधानेन पदार्थानामुपस्थितिरेवासक्ति:’ इति राद्धान्त: स्वीकृत: बुधै: । आसक्तिज्ञानमिदं शाब्दबोधे सहकारिकारणम् । सिद्धान्तेनानेन ज्ञायते यत् पदार्थानामव्यवधान्वित्या उपस्थित्या शाब्दबोधो जायते । किन्तु पदार्थानामव्यवधानेऽप्यविलम्बेनोपस्थितिरपेक्षते यतोहि व्यवधानरहितपदार्थानां विलम्बेनोपस्थिति भवति चेत् शाब्दबोधो न भवति । अत: अविलम्बेनाव्यवधानेन च पदार्थानामुपस्थितिरेव आसक्तिरिति वक्तव्यम् । तथापि ‘अव्यवधानेन पदार्थानामुपस्थितिरेवासक्ति:’ इति सिद्धान्त: स्वीकृत: ।