International Journal of Sanskrit Research
2017, Vol. 3, Issue 4, Part E
कालिदासकृतिषु साहित्यभावना
डक्टर अरुणकुमारपोड़ेलः
प्राच्यपाश्चात्यसाहित्यनिर्मातृसमाज सश्रद्धं स्मर्यमाणेषु कविकुलज्योतिष्केषु कालिदासो स्वीयते। महाकविधुरन्धरो अयं कविताकल्पलतावितानपरिशोधिते काव्यमार्गे स्वकीय महिम्ना तथा स्वीयप्रतिभायाः प्रत्यग्ररुपश्रिया किमपि अपूर्वं सहृदय हृदयसंवोध्यं वस्तु आदधानो अद्यापि जागतीतले अस्मिन् देदिप्यतेतराम्। महाकविरयं जन्मना कं देशं कञ्च समयमलंकृतवान् कौ च तादृशौ पुण्यभाजौ पितरौ ययोरयं मूर्तिमानानन्देत्सव आसीदित्यादिविषये दुभेद्यं तिमिरं भित्वा नास्माकं दृष्टिः प्रसरति। सत्यपि वैमत्ये भारतेतिहासस्य सुवर्णसमयतया प्रथिते गुप्तसाम्राज्यकाले कवेरस्य प्रार्दुभावः सम्भाव्यते अस्माभिः। कविनानेन रघुवंशकुमारसम्भव मेघदूताख्यानि त्रीणि काव्याणि, ऋतुसंहारमिति एकं खण्डकाव्यम्, मालविगाग्निमित्र – विक्रमोर्वशीया अभिज्ञानशाकुन्तलाख्यानि त्रीणि नाटकानि विरचितानि इत्यत्र नास्ति शङ्कापङ्कलेशो अपि। अन्ये अपि वहवः प्रवन्धाः कालिदास – विरचितया प्रथमानाः सहृदयहृदयानि समावर्जयन्ति इत्यपि नाविदितं विदुषाम्। महाकविरयं तथाविधो यस्य एको अपि प्रवन्धः प्रवन्धशतायते, एको अपि श्लोकः श्लोकसहस्त्रायते, एकमपि च नाटकं नाटकरत्नायते। किमु वक्तव्यम्, एकमपि काव्यं काव्यजगति समुज्ज्वलं सूर्यवत् समुदीप्तं सर्वासु दिक्षु रसिकजनहृदयेषु विमलामानन्दमातनोति।
How to cite this article:
डक्टर अरुणकुमारपोड़ेलः. कालिदासकृतिषु साहित्यभावना. Int J Sanskrit Res 2017;3(4):289-290.