Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 2, Part B

नाटकस्य स्त्रीपात्राणां परिचयः

मुकेश कुमार झा

संस्कृतसाहित्यं निजनगरिमाविषये न केवलं भारतवर्षे अपितु अखिलसंसारे विख्यातमस्ति। विश्वस्य विद्वत्मण्डलम् एकस्वरेण अस्य महिमा गायति। किन्तु दुर्भाग्यस्य विषयः अस्ति यत् अस्माकमेव देशे अनेके जनाः सन्ति; ये इदं साहित्यं केवलं ‘रोमानी’ अस्ति इति संज्ञां दत्वा अद्यतनस्य संघर्षशीलसमाजस्य कृते अयं सर्वथानुपयोगीति वदन्ति। एतस्य प्रचारं-प्रसारमनावश्य्कमिति साधयन्ति। किन्तु प्रत्यक्षे किं प्रमाणम्? भास-कालिदास-शूद्रक-विशाखदत्त-भवभूति-भारवि-माघ-भट्टि-श्रीहर्ष-सुबन्धु-दण्डी-बाण-हर्ष प्रभृतयः स्वनामधन्यकवयः निज़कृतिषु न केवलं साहित्यिक सौन्दर्यमपितु भारतीयसंस्कृतिसभ्यतायाः निदर्शनं राष्ट्रियभावनायाः पोषणमपि च कुर्वन्ति स्म। समाजोपयोगितत्त्वैः परिपूर्णमिदं साहित्यं प्राच्यपाश्चात्ययोः द्वयोरपि कृते सर्वदौबहुमूल्यं भविष्यति।
अस्माकं संस्कृतसाहित्यकारेषु अनेकाः नाटककाराः सन्ति येषां कृतिषु राष्ट्रियभावनायाः सुमधुरं स्वरः श्रूयते। तेषां भासः- कालिदासः -विशाखदत्तः -भवभूतिः- मुरारिः-अनन्तभट्टः-क्षेमेन्द्रः-श्रीहर्ष-विद्यापतिः-नयन चन्द्रसूरिः-चन्द्रशेखरः‘- वेङ्कटाध्वरिः-देवराजशर्मा-देवराजशास्त्री इत्यादयः उल्लेखनीयाः सन्ति। किन्तु अतिविस्तारभयेन अस्मिन् शोधपत्रे केवल भासं कालिदासं विशाखदत्तं भवभूतिं च विवेचनार्थं स्वीकरोमि।
Pages : 91-94 | 204 Views | 46 Downloads
How to cite this article:
मुकेश कुमार झा. नाटकस्य स्त्रीपात्राणां परिचयः. Int J Sanskrit Res 2017;3(2):91-94.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.