Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 1, Part C

शब्दार्थयोस्सम्बन्धः – तयोर्बुद्धिस्थत्वं च

Naveen Bhat

विश्वस्मिन् विश्वे मानवसंवहनस्याधारभूताः सहस्राधिकं भाषाः विद्यन्ते इति सुविदितम् । भारते उपखण्डे एव १६५२ भाषाः वर्तन्त इति १९६१ तमे ईसवीये वर्षे कृता गणतिः अभिप्रागात् । सतीष्वपि सहस्रं भाषासु केवले संस्कृतवाङ्मये शब्दजालम् अर्थविस्तृतिं चाधिकृत्य आबहोः कालान्महानुद्यमः कृतो दृश्यते । कृतेनैव तेनोद्यमेन ननु सहस्रं वर्षेभ्यः वेदसाहित्यं विनादोषमधुनाऽपि गुञ्जति जगति । उक्तेन शब्देन अर्थस्यावगतेः को नियमः, कस्तत्र तर्कः, केनेदमित्थं व्यवस्थितमित्यत्र चिन्त्यम् । आधुनिके सङ्गणकक्षेत्रे ’NLP’ इति काचित् योजना प्रसिद्धिमावहन्ती वर्तते, या च मानवसहजभाषाभ्यः सङ्गणके अर्थावगतिः कथं स्यादिति विषयं अध्येति । क्षेत्रमिदमद्यत्वे संस्कृतव्याकरणेन नितरां सम्बद्धमित्यप्यत्र उल्लेख्यम् । अस्मत्प्राचीना विज्ञाः शब्देभ्यः अर्थानां स्फुरणं कथं जायते इतीमं विषयमाधृत्य कांश्चन सिद्धान्तान् प्रास्तुवन् । विशिष्य व्याकरणे शास्त्रे इयं चर्चा प्रकृष्टतया विहिता । आधुनिकभाषाध्ययनं इमां शास्त्रीयां चर्चां विना अपूर्णा एवेति मन्मतिः । तदनु १७-१८ शतमानयोर्जीवितवतः व्याकरणाचार्यस्य नागेशभट्टस्य सिद्धान्तमाधारीकृत्य शाब्दबोधः अत्र विचार्यते ।
Pages : 110-113 | 1031 Views | 101 Downloads
How to cite this article:
Naveen Bhat. शब्दार्थयोस्सम्बन्धः – तयोर्बुद्धिस्थत्वं च. Int J Sanskrit Res 2017;3(1):110-113.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.