इदं न जातु विस्मर्तव्यं यदक्षरसमाम्नायमूलकमिदं न केवलं वेदाङ्गमितरशास्त्रसाधारणं वा, अपितु तत्त्वहितावेदकसंस्कारविशेषत्वात् सर्वविद्यासूपकारकतया परिस्फुरद् विषयतद्रहस्यपौष्कल्यात् किमपि पुण्यतमं महाशास्त्रम् । यत्संस्कारवैधुर्येण किंविधस्यापि जनस्य प्रज्ञा वाचि दुरवस्थां विपर्ययं वा प्रतिपद्यते, तदीयवाक् च विप्रतिपन्नार्था सती स्वसामर्थ्यमुज्झति । युक्तमाह मधुमयभणितीनां मार्गदर्शी महर्षी रामायणे - संस्कारेण यथा हीनां वाचमर्थान्तरङ्गतामिति।1 व्याकरणसंस्कारवती वाङ् न केवलं मलविक्षेपापनयनेन वाग्योगविदं पुनाति, अपितु ब्रह्मसायुज्ययोग्यतासम्पादनरूपस्य विशेषस्याधानेन विभूषयति च । अमुमेवार्थं कविकुलगुरुरपि ललितसरण्या प्रत्याययति - संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चेति2 वाच: शुद्धस्वरूपस्य शब्दात्मनः साक्षात्कारे व्याकरणस्योपकारकत्वमाह स्वयं भर्तृहरि:-
अत्रातीतविपर्यासः केवलामनुपश्यति ।
छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम् ।।3
प्रत्यस्तमितभेदाया यद्वाचो रूपमुत्तमम् ।
यस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते ॥4