वर्तमानकाले मनोविज्ञानमेकमतिमहत्त्वपूर्ण विज्ञानमस्ति । इदं मनोविज्ञानं 'Psychology' वा इत्युच्यते।'Psychology’ इति शब्दस्य व्युत्पत्त्यनुसारेण मनोविज्ञानं दर्शनशास्त्रस्य शाखाऽऽसीत्, किन्तु वर्तमानकाले मनोविज्ञानस्य तात्पर्यं प्राणिनां व्यवहाराध्ययनमिति स्वीक्रियते । संस्कृतवाङ्मये स्वतन्त्ररूपेण मनोविज्ञानग्रन्थाः न लभ्यन्ते, तथापि आत्मविज्ञानप्रतिपादकग्रन्थेषु बहुधा मनोविज्ञानसूत्राणि प्राप्यन्ते । वेदेषु उपनिषत्सु रामायण-महाभारत-योगसूत्र-धर्मशास्त्र-दर्शनशास्त्र-ज्योतिषशास्त्रादिग्रन्थेषु मनसः प्रकृतिः कार्याणि च विचारितानि सन्ति। एते ग्रन्थाः न केवलं धर्माध्यात्मप्रतिपादनपराः अपितु मानवव्यवहारस्य सर्वे पक्षाः अत्र प्रकाशिताः सन्ति । मनोविज्ञानजगति श्रीमद्भगवद्गीतायाः श्रीकृष्णस्य च अतीव आदरोऽस्ति। भगवान् श्रीकृष्णः विश्वस्य प्रथमः मनश्चिकित्सकः मन्यते । गीतायां मानसिकासन्तुलनं निराशामवसादञ्च प्राप्तवतः अर्जुनस्य मनोवैज्ञानिकसमाधानं कृतमस्ति । संस्कृतवाङ्मये बहुषु स्थलेषु मनोवैज्ञानिकसमाधानरूपेण नर-नारायणसंवादः, गुरु-शिष्यसंवादः, पति-पत्नीसंवादः इत्यादयः उपलभ्यन्ते। पञ्चतन्त्रस्य हितोपदेशस्य च कथाः प्राच्यमनोविज्ञानस्य सूक्ष्मताः दर्शयन्ति । संस्कृतसुभाषितसाहित्ये तु प्राचीनमनोविज्ञानांशाः सरसरीत्या प्रतिपादिताः सन्ति। साहित्यशास्त्रस्य औचित्यसिद्धान्तः रससिद्धान्तश्च मनोविज्ञानस्य दिग्दर्शनं कारयति। कवेर्व्युत्पत्तिज्ञाने मनोविज्ञानमपि आवश्यकमस्ति, विना मनोविज्ञानज्ञानेन काऽपि काव्यरचना असम्भवा, अतः विशालसंस्कृतसाहित्यं मनोविज्ञानसूत्राणां भाण्डारमस्ति। साहित्यशास्त्रे स्थायिभावानां यन्निरूपणं कृतमस्ति तद्विशुद्धमनोवैज्ञानिकाधारेण विहितमस्ति।
सकारात्मकताप्राप्त्यर्थं निश्चितरूपेण मन उपरि अवधानमावश्यकं भवति यतो हि यथा मनसि विचार्यते तथैव सः विचारकः जनः जायते। चित्तप्रसन्नतायाः उपायः निर्दिष्टोऽस्ति सुखिजनैः सह मित्रता, दुःखिप्राणिषु दया, पुण्यात्मनः प्रति हर्षभावना अपुण्यशीलान् च प्रति उपेक्षाभावनातः चित्तप्रसन्नता लभ्यते। मनोविज्ञानान्तर्गते उत्साहः, परोपकारः, दया, अक्रोधः, प्रियवचनं, सन्तोषः, सुखदुःखसमभावः इत्यादयः बहवः पक्षाः समायान्ति ।
निष्कर्षतः वक्तुं शक्यते यत् संस्कृतवाङ्मये निबद्धाः प्राचीनमनोविज्ञानसिद्धान्ताः वर्तमानकाले इतोऽपि अत्यावश्यकाः प्रासङ्गिकाश्च सन्ति। वैश्विक 'कोरोना' महामार्याः अनन्तरं वृद्धिं गतानां मानसिकव्याधीनां निवारणाय एते सिद्धान्ताः सूत्राणि च आचरणीयानि अनुपालनीयानि च सन्ति। मानवजनितानां सर्वासां विश्वव्यापकसमस्यानां समाधानसूत्राणि संस्कृतवाङ्मये अन्वेष्टुं योग्यानि। इदं वाङ्मयं तादृशानां ऋषिमुनीनां परम्परायाः वाहकमस्ति ये क्रान्तदर्शिनः आसन् । सकलः संसारः कुटुम्बवदिति सन्देशदायकं वाङ्मयमिदं विश्वकल्याणकारि सर्वजनहितकारकञ्चास्ति।