भाषायां पदस्य वाक्यस्य च प्रयोगो भवति। केवलं धातोः प्रातिपदिकस्य प्रत्ययस्य च प्रयोगो न भवति। पदस्यापि प्रयोगो वाक्यद्वारैव भवति। तदनुसारं प्रयोग इत्यस्य वाक्यप्रयोग इत्यर्थो भवति। अद्यत्वे प्रयोगशब्दस्य स्थाने ‘रचना’ शब्दः प्रयुज्यते। [1] रचनाया अर्थो निर्माणम् अस्ति। रचनायाः किं लक्षणं? तत्र कथयितुं शक्यते- नियमानुकूलं विचारपूर्वकं संकलितशब्दानां विभक्तियोगेन यथोचितपरिवर्तनपूर्वकं परस्परसमन्वितरुपेण क्रमानुसारेणोपस्थापनं, येन पूर्णभावः प्रकाशितो भवेत् सा रचनास्ति। वाक्ये पदानां परस्परं समन्वयस्य औचित्यपूर्वकं लालित्यमेव रचनेति कथ्यते। शब्दानां समन्वयश्च लिड.्ग-वचन-कारक -कालादीनामाधारेण भवति। संस्कृतरचानायां (वाक्यप्रयोगे) चतुर्धा समन्वयः परमावश्यको भवति [2]-
1.कत्रा सह क्रियायाः समन्वयः।
2.संज्ञया सर्वनाम्नः समन्वयः।
3.विशेष्येण विशेषणस्य समन्वयः।
4.सम्बन्धिवाचिना सम्बन्धवाचकस्य (सम्बन्धवतः) समन्वयः।