संस्कृतं सर्वासां भाषाणां जननी मन्यते अतएव तासां सर्वासां भाषाणां संस्कृतेन सह संबंन्धः दरीदृष्यते। आधुनिकभारतीय-आर्यभाषासु “पहाड़ी“ इति नाम्ना भाषा पर्वतीयप्रदेषस्य वर्तते। अस्याः तिस्रः उपभाषाः सन्ति- पष्चिमी पहाड़ी, मध्यपहाड़ी, पूर्वीपहाड़ी। हिमाचलप्रदेषस्य भाषा “पष्चिमी पहाड़ी“ इति अस्ति। हिमाचलीपर्वतीयानां विभाषाणां स्रोतः शौरसेनीअपभ्रंश मन्यते यतोहि शौरसेनी अपभंषे यथा श् ष् वर्णयोः उच्चारणं ‘स’, ऋ इति स्वरस्य अनुनासिक रूपं नास्ति एवं ‘उ’ ध्वनेः बहुलता वर्तते तथैव पर्वतीयोपभाषासु अपि दृष्यते। भरतनाट्यषास्त्रेऽपि वर्णितम्-
हिमवस्सिन्धुसौवीरान् येडन्यदेषान् समाश्रिता।
उकार बहुलां तेषु नित्यं भाषा प्रयोजयेत।।
अस्मिन् शोधपत्रे अनयोः द्वयोः भाषायोः भाषाषास्त्रीयावलोकनम् ध्वनिपरिर्वतन-रूपपरिवर्तन-वाक्यरचनादृष्ट्याकृतम। परिणामतः एतत् परिलक्ष्यते यत् किंचित् उच्चारणभिन्नतासत्यपि हिमाचलीभाषा तु संस्कृतस्य एव प्रतिरूपा अस्ति।