Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 4, Part B

आर्षमूलतः स्वास्थ्यनिर्वहणम्

Raghuveer Billigadde

लोके जनाः प्रयोजनपराः, यतः यत्र प्रयोजनं लभ्यते तत्र जनाः प्रवर्तन्ते । एवमेव बहुजनाः स्व स्वास्थ्यरक्षणे बद्धादराः । तथापि आधुनिककालस्य ऎश्वर्यानुकूल्यप्रभावतः स्वास्थ्यं कथं रक्षितुं शक्यते? तत्र कः उपायः? इति जनानां प्रश्नः वर्तते । तस्यां दिशि बहवः ग्रन्थाः प्राचीनपण्डितैः उल्लिखिताः क्वचित् उपलभ्यन्ते । अतः जनैः विस्तृतदृष्टिः आधातव्या । तदा केवलं श्रुतिस्मृतिपुराणेषु उक्ताः स्वास्थ्यरक्षणॊपायाः प्राप्यन्ते ।rnस्वकीयं मनः सत्पुरुषाणां मनसा तुल्यम् उत पशूनां मनसा तुल्यमिति परीक्षते, परिशील्य परिष्करॊति । तादृशः मानवः स्वस्य अन्तस्सत्वं प्रतिपदं परीक्षमाणः स्वस्मिन्नेव तिष्ठति । एषः स्वस्थेषु प्रथमः । एतादृशः शरीरभावेन यदा बहिर्मुखः तथापि सः शरीरेणापि तपः एव अनुतिष्ठति । rn‘कौमार आचरेत् प्राज्ञः धर्मान् भागवतान् इह ‘(भागवतम्- ७-६-१)।rnशरीरेण देवानां, महात्मनां, गूरुणां, प्राज्ञानां पूजनं करोति, श्रमसेवादिकायिकं कार्यं कुर्वन् शरीरं यॊगार्थमपयुङ्क्ते । अतः तस्य शरीरं केवलं भॊगाय न । यॊगः एव तस्य जीवनं भवति । शुचित्वं तस्य स्वभावः भवति । ब्रह्मचर्यसिध्या वीर्यवान् भवति । rn‘बलमार्तभयोपशान्तये’ (रघुवंशम्)rn इतिवत् दुःखतप्तानामर्तिनाशाय सः स्ववपुः उपयुङ्क्ते । शिबिचक्रवर्तिवत् तस्य जीवनं जीविनाम् उपकाराय भवति स्म । तस्मादेव देहेनापि सः ब्रह्म चरति । rnभोगयोगसमन्वयः एव जीवनरहस्यम् । तत्र सन्तुलितस्थितिरेव क्षेम । अस्यामवस्थायां प्रकृतिमातुः सकाशात् प्राप्तस्य सर्वविधनिधेः यथायथं पालनमेव प्रधानम् । प्रकृतिमातुः महद्योगदानं नाम धर्मसाधनं वपुरेव । वपुषः निधानं, वपुषः रूपं, वपुषा साधनीयम् एतत्सर्वं आर्षपक्षतः यदि जानाति तर्हि क्षेमनिर्वहणं सुकरम् । वैदिकाः ऋषयः ‘योगक्षेमॊ नः कल्पताम् ‘ इति ध्येयवाक्यं दत्तवन्तः । यदा ब्राह्मणः ब्रह्मवर्चसी भवति, राजानः धनुर्धरो भूत्वा समाजं रक्षति । शूरः, वीरः शरणागतसन्त्रानं करोति, धेनवः पर्याप्तरूपेन क्षीरं प्रयच्छन्ति, ऋषभाः कृषिकार्यं साधु निर्वहन्ति, अश्वाः अश्वरोहान् सुदूरं नेतुं शक्नुवन्ति, महिलाः पतिवृताः भवन्ति, युवानः सभ्याः भवन्ति तदा प्रकृतिमाता प्रसीदति । सन्तुष्टा सा काले काले पर्जन्यं वर्षयति । इत्थं समष्टि स्वास्थ्यतः व्यष्टिस्वास्थ्यं सिध्यति
Pages : 67-71 | 1072 Views | 80 Downloads
How to cite this article:
Raghuveer Billigadde. आर्षमूलतः स्वास्थ्यनिर्वहणम्. Int J Sanskrit Res 2016;2(4):67-71.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.