International Journal of Sanskrit Research
2016, Vol. 2, Issue 4, Part B
आधुनिकसमाजनिर्वहणे नीतिमत्तायाः औचित्यम्
Manjunatha N Hegde
अस्मिन् जगति समाजस्य बहुविधक्षेत्रेषु निर्वहणं प्राधान्यं भजते। निर्वहणं तावत् निर्वाहकाधीनम्। अस्माकं जीवनमार्गः निम्नतौन्नत्यबहुलोऽस्तीति विदितमेव। आधुनिकजगतः प्रभाववशात् एषः स्तरः इतोऽपि सङ्कीर्णः। अतः कारणात् कालेऽस्मिन् व्यवहारः दुःसाध्यः। साफल्यप्राप्त्यै निर्वाहकत्व(नायकत्व)गुणाः आत्मसात्कर्तव्याः। समाजस्य बहुविधक्षेत्रेषु स्थानापन्नाः निर्वाहकपदेन अभिधीयन्ते। तस्मात् एते सर्वेऽपि नायकत्व(नेतृत्व)गुणभूयिष्ठाः भवेयुः। यतो हि नेतृषु कापथगामिषु प्रजाः अधर्ममेव धर्मं मन्वानाः दुष्टं नेतारम् आन्ध्येन अनुसरन्ति। एकस्यां सङ्घटनायां, संस्थायां वा यदि नेता नेतृत्वगुणभूयिष्ठः तर्हि कार्यकर्तारः अपि तद्भावभाविताः सत्कारपूर्वकम् अनवरतं दीर्घकालञ्च कार्यं कुर्वाणाः साफल्यम् उद्भावयन्ति। अतः कारणात् निर्वाहकेन गुणगणैः भाव्यम्। आधिक्येन प्रसिद्धे समाजोपयोगिनिर्वहणविज्ञाने नायकत्वचिह्नं प्राधान्यं वहति। तद्धेतोः तत्तत्क्षेत्रे विद्वांसः (प्रवीणाः), नैतिकाः, उत्तमशास्तारश्च भवेयुः। वर्तमानसमये तत्तत्क्षेत्रे विद्यमानानां बहूनां विद्वत्ता मना अपि हरति। बहवः स्वस्वक्षेत्रे उत्तमशास्तारः अपि। प्रायः नैतिकाः बहवो नोपलभ्यन्ते। अतः सद्यः नीतिः प्राधान्यं भजते। वर्तमानसमये तस्याः प्रभावः भवेदित्ययं लेखः।
How to cite this article:
Manjunatha N Hegde. आधुनिकसमाजनिर्वहणे नीतिमत्तायाः औचित्यम्. Int J Sanskrit Res 2016;2(4):55-62.