समग्रस्य विश्वस्य वेदः अत्यन्तप्राचीनतमः वाङ्मयः वर्तते । अस्य समस्तधर्मशास्त्रदार्शनिकग्रन्थानाम् आधारभूतत्वात् समस्तप्राणिकुलहितार्थत्वाच्च भारतीयपरम्परायां प्रामाण्यं सर्वैरास्तिकैः समानरूपेणाभ्युपगतं वर्तते ।
उक्तं च मनुना:-वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च ॥
यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥
चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति ॥
भगवता कृष्णदैपायनेनापि महाभारते भणितं:-
अनादिनिधना नित्या वागुत्स्रुष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥
अतः वेदः एव पितृदेवमनुष्याणां सर्वेषामपि सनातनं चक्षुः । ईदृशी आस्तिक्यबुद्धिः नः सर्वेषामपि वेदप्रामाण्यवादिनां अन्तःकरणे दरीदृश्यते । “विद्यन्ते ज्ञायन्ते लभ्यन्ते वा एभिः धर्मादिपुरुषार्थाः इति वेदाः” इति विद्-धातुनिष्पन्नत्वात् वेदस्य ज्ञानार्थत्वं,लाभार्थत्वं च दर्शितं ऋग्वेदप्रातिशख्ये । सर्ववेदभाष्यकारेण सायणाचार्येणापि अयमेवाभिप्रायः प्रकटितः स्वीयायाम् ऋग्वेदभाष्यभूमिकायाम् –“ इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः” इति। वेदस्य स्वरूपविचारे बहवः विचाराः प्रकटिताः विद्वद्भिः, सर्वप्रथमं बौधायन-आपस्तम्बप्रभृतिभिः सूत्रकारैः “मन्त्रब्राह्मणयोः वेदनामधेयम्” इति मन्त्रब्राह्मणात्मकं स्वरूपं वेदस्य इति निर्धारितम् | आस्तिकनास्तिकदर्शनयोः भेदस्य प्रमुखं साधनमपि वेदप्रामाण्यमेव चार्वाक- जैन- बौद्धादिनास्तिकानां नास्ति वेदप्रामाण्यबुद्धिः । अतः समग्रैः आस्तिकैः दार्शनिकैः यानि दर्शनतत्त्वानि प्रतिपादितानि, तेभ्यः वेद एव मूलम्, मन्त्रद्रष्टारः ऋषय एव यथार्थदार्शनिकाः ॥