अस्ति वेदोदितो लोको मतियेषां त आस्तिकाः। नास्ति वेदोदितो लोको मतिर्येषां च नास्तिकाः।।
वेदेषु प्रतिपादितं सिद्धान्तं ये स्वीकुर्वन्ति। ते हि आस्तिकाः कथ्यन्ते। ये नैव मन्यन्ते। ते हि नास्तिकाः शास्त्रेषु गीयन्ते। पाणिनिसूत्रेण ठकि तस्येकि आस्ति कना-स्तिक- शब्दयोः सिद्धिर्जेया। ये हि वेदं ब्राह्मप्रोक्तं स्वत:। प्रमाणं मन्यन्ते तत्र श्रद्धां विदधति। ते हि आस्तिका ये अनेवविधा ते नास्तिका इति निष्कर्षः। वस्तुतस्तु वेदप्रामाण्यवादिन आस्तिकाः, वेदा प्रामाण्यवादिनो नास्तिका इति सरणिः।