न चागमादृते धर्मस्तर्केण व्यवतिष्ठते ।
ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ।।1
वैयाकरणप्रकाण्डस्य भर्तृहरेर्वचनमिदं धर्मविषये प्रमाणान्तरापेक्षया आगमस्यानितरसाधारणं महत्त्वं सुदृढमभिधत्ते, शब्दसंस्कारकस्य व्याकरणस्य सतां शब्दानां व्युत्पादनमेकं महत्कार्यं विद्यते; यदाधारेण शब्दाशब्दविवेक: परिस्फुरति लोकस्य,अपभ्रंशेष्वप्यर्थबोधकतायाः साम्येऽपि पुण्यजनकतां तु साधुष्वेव निश्चिनोति महाभाष्यकार:-
समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते इति2