प्रस्तुतशोधलेखेऽस्मिन् श्रीमद्भागवतमहापुराणस्य वैशिष्ट्यं महत्त्वं च प्रतिपादितं वर्तते। अनेन पुराणस्यास्य आध्यात्मिकदृष्ट्या दार्शनिकदृष्ट्या साहित्यिकदृष्ट्या सामाजिकदृष्ट्या च किमौचित्यं मानवजीवने इति पाठका: ज्ञास्यन्ति । यतोहि पुराणग्रन्थोऽयं न केवलं देवानां चरित्रचित्रणं करोत्यपितु तै: कथानकै: आदर्शव्यक्तित्वमुस्थापयति समाजे ।