International Journal of Sanskrit Research
2015, Vol. 1, Issue 2, Part A
चादिनिपातप्रयोगसौष्ठवपर्यालोचना
जयकान्तसिंहशर्मा
स्वमनोगतभावस्य सम्प्रेषणाय अन्येषु अभिव्यक्तये भाषोपादीयते मानवैरिति सर्वप्रत्यक्षम्। येषां पदानां प्रयोगेण सहजतया अविलम्बेन च अभिव्यक्तिमनुभवति मानवः, तानि तानि पदानि अचिरेण बुद्धौ तस्य यथासंस्कारं समायान्ति, सद्यस्तन्मुखान्निःसरन्ति च। एवं हि दृश्यते लेखनादौ तु विचार्य पदोपादानं, किन्तु आवेशादौ यदा मानवोऽविचार्यैव पदान्युपादत्ते, तदा शब्दानां तारतम्यपरीक्षणं विनैव निसर्गतया यथाभ्यासं यथासौकर्यं प्रयुङ्क्त एव। भाषा तु यथाभ्यासं परिवर्तते।
How to cite this article:
जयकान्तसिंहशर्मा. चादिनिपातप्रयोगसौष्ठवपर्यालोचना. Int J Sanskrit Res 2015;1(2):103-107.