Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 4, Part A

चार्वाकीयस्वभाववाद-सांख्यीयपरिणामवादयोः तुलनात्मकमध्ययनम्

सुरजरायः

जगदुत्पत्तेर्व्याख्याने चार्वाकाः कार्य-कारणसिद्धान्तं न स्वीकृतवान्। ते कथितवन्तः स्वभावादेव जगद्वैचित्र्यस्योत्पत्तिरभूत्। स्वभाव एव जगतः कारणं वर्तते – स्वभावो जगतः कारणम् इति। लोकायतिका मन्यन्ते यत् जगदुत्पत्तिविषये कार्य-कारणस्यावश्यकता नास्त्येव। यतोहि कारणं विना एव जगतः सर्वमेव स्वभावादेव जायते। कारणं विनैव कार्य्यं भवति इति स्वभाववादिनः। तथा हि – माधुर्यमिक्षौ कटुतां मरीचे स्वभावतः सर्वमिदं प्रवृत्तमिति। अपरस्मिन् पक्षे सांख्यीयपिरणामवादस्तु कार्यकारणात्मकं मन्यते। तथापि निरीश्वरवादिसांख्याचार्यैः परिणामस्वभावस्य शक्तिं स्वीकृत्य सन् स्वभाववादस्य तुल्यमभवत्। सांख्यकारिकायामाह –
“वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य।।”
अर्थात् यथाऽचेतनस्य क्षीरस्य प्रवृत्तिस्तु स्वभावाज्जायते, तथैव जड़स्वभावयुता प्रकृतिरपि स्वभावादेव पुरुषस्य मोक्षनिमित्तं प्रवृत्तिर्भवति। अत्र हि चार्वाकीयस्वभाववादेन सह सांख्यीयपरिणामवादस्य सादृश्यता वैसादृश्यता च वर्णीयते। अपि च स्वभाववादस्य प्रतिष्ठां क्रियते।
Pages : 05-09 | 721 Views | 120 Downloads
How to cite this article:
सुरजरायः. चार्वाकीयस्वभाववाद-सांख्यीयपरिणामवादयोः तुलनात्मकमध्ययनम्. Int J Sanskrit Res 2020;6(4):05-09.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.