Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 3, Part B

सांख्ययोगदर्शनयो ईश्वरस्य स्थानम् : समीक्षणमेकम्

Sabnoor Parveen

महर्षिणा कपिलेन प्रणीतं सांख्यसूत्रमिति सांख्यदर्शनस्य प्रधानभित्तिः। पतञ्जलिना विरचितं योगसूत्रन्तु योगदर्शनस्य भित्तिरिति विजानीयादस्माभिः। सांख्यदर्शनन्तु पञ्चविंशतितत्त्वात्मकमिति कथ्यते। तत्र ईश्वरस्यास्तित्वं न स्वीकृतम्। अपरस्मिन् पक्षे योगदर्शनन्तु षड्विंशतितत्त्वात्मकम्। यतोहि ईश्वरस्य विद्यमानता स्वीकृता योगदर्शने। सांख्ययोगदर्शनयो ईश्वरस्य स्थानवर्णनाप्रसङ्गे प्राग् हि सांख्यदर्शनस्योत्सानुसन्धानादनन्तरं तस्य निरीश्वरत्वं प्रतिपादितम्। तथा योगदर्शनस्य सेश्वरत्वं प्रतिपादनादनन्तरमन्तिमे च सिद्धान्तरूपेण ईश्वरासिद्धत्वप्रसङ्गक्रमेण तस्य सांख्यदर्शनस्य निरीश्वरत्वमुपस्थापितम्। अपरस्मिन् पक्षे तु सेश्वर इति नाम्नि प्रसिद्धे पातञ्जलयोगदर्शने निमित्तकारणरूपेण ईश्वरस्य विद्यमानतोपस्थापिता। प्रकृतिपुरुषसंयोगाद्यथा जगदुत्पत्तिर्जायते। प्रकृतिपुरुषविवेकज्ञानादेव तथा मोक्षप्राप्तिर्भवति। प्रकृतिपुरुषयोः विवेकज्ञानन्तु ईश्वरप्रणिधानाद्विना न जायते। ईश्वरप्रणिधानादेव हि पुरुषस्य विवेकख्यातिर्जायते। एवमेव हि सांख्ययोगदर्शनयो ईश्वरस्य स्थानं प्रतिपादितम्।
Pages : 96-100 | 732 Views | 76 Downloads
How to cite this article:
Sabnoor Parveen. सांख्ययोगदर्शनयो ईश्वरस्य स्थानम् : समीक्षणमेकम्. Int J Sanskrit Res 2020;6(3):96-100.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.