Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 3, Part B

पुर्वजन्मसंस्कारस्य फलम् : एकं समीक्षात्मकमध्ययनम्

Dr. Menakarani Sahoo

मनुष्ये पशौ च आहारः, निद्रा, भयं, मैथुन्यञ्च समानं वर्तते परन्तु कर्तव्याकर्तव्यस्य ज्ञानं तयोः मध्ये पार्थक्यं प्रदर्शयति । कर्तव्याकर्तव्यस्य ज्ञानं बुद्धेरनुकरणं करोति । अध्यवसायात्मकं दृढनिश्चयात्मकं ज्ञानं बुद्धिः भवति । सा बुद्धिः द्विविधाः सात्त्विकी तामसी चेति । सात्त्विकी बुद्धिस्तु धर्मज्ञानवैराग्यैश्वर्यभेदेन चतुर्विधा । तामसी बुद्धिः अधर्माज्ञानावैराग्यानैश्वर्यभेदेन चतुर्विधा । तामसी बुद्धिः मनुष्यं कुकर्म प्रति प्रेरयति । येन मनुष्यः अकार्यं करोति । धर्मार्थं कामार्थम् अर्थोपार्जनार्थं मोक्षप्राप्तये च कर्मणः आवश्यकता अनुभूयते । ‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इति न्यायेन मानवः सर्वदा कर्मणि लिप्तः भवति । कर्मणः फलं मनुष्यं परत्रमप्यनुगच्छति । अतः मानवः सर्वदा यत्नेन कर्म कुर्यात् । कर्मणः फलं कृतकर्मानुसारं प्राप्तं भवतीति । अस्य प्रमाणं वेदेषु,उपनिषत्सु, पुराणेषु, रामायणे, महाभारते, संस्कृतमहाकाव्येषु, नाटकेषु, गद्यकाव्येषु, गीतिकाव्येषु च उपलभ्यते ।
Pages : 66-70 | 737 Views | 82 Downloads
How to cite this article:
Dr. Menakarani Sahoo. पुर्वजन्मसंस्कारस्य फलम् : एकं समीक्षात्मकमध्ययनम्. Int J Sanskrit Res 2020;6(3):66-70.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.