विष्णुस्मृतौ स्त्रीणां पृथक्तया यज्ञव्रतोपवासविधिर्नासीत्। तत्र स्त्रीणां मुख्यधर्मत्वेन पतिगृहस्थपरिजनानां सेवा ह्युल्लिखिता। तत्र स्त्रीजनं न कदाप्यासीत् स्वतन्त्रम्। सा वाल्यावस्थातो वृद्धावस्थापर्यन्तं कस्यापि अधीने सन्तिष्ठति सर्वकर्मस्वस्वतन्त्रतया। स्मृतौ नारीणामाचारसम्बन्धीयनियमानां विद्यमानत्वेऽपि विदुषीणां शिक्षा-दीक्षादिसम्बन्धीयविषयाणां वर्णनाभावादनुमीयते यदुभययुगे नारीशिक्षा अवहेलिता बभूव।
अपरतो, विष्णुधर्मोत्तरपुराणे उच्यते यत् सतीनार्यः कर्तव्यं तावत् पत्युः उत पुत्रस्य अधीनेन जीवननिर्वाहनम्पत्या समं सहमृत्युवरणमेव वरम् च। अपि चोक्तं विष्णुधर्मोत्तरपुराणे ‘नष्टे मृते प्रव्रजिते क्लीवेऽथ पतितेऽपतौ। पञ्चस्वापत्सुनारीणां पतिरन्यो विधीयते’।स्मृतौ नारी-पुरुषयोरान्तःसम्पर्को निर्णीतो बभूव समाजेनैव। नारीणां पारतन्त्रस्य स्वरूपमिदं वर्तमानयुगमास्थायवयम् कष्टेनापि कल्पयितुं न शक्नुमः। मृतपत्या समम् अनुगमनेन सतीदाहप्रथा परोक्षतया उल्लिखितेति उभयोर्ग्रन्थयोः। समाजे तदानीमासीत् कन्यकायाः विक्रयप्रथेति विचिन्त्य विष्णुधर्मोत्तरपुराणे कन्यायाः विक्रयो निषिद्धः। अपरतः, गौरीपूजाया उल्लेखः अपि प्राप्यते। अत्रैव स्पष्टं यत् स्त्रीधर्म इत्यनेन नारीणां पातिव्रत्यमेव अवबुध्यते विष्णुस्मृतौ तथा विष्णुधर्मोत्तरपुराणे चेति। अत्रैव स्पष्टं यत् स्त्रीधर्म इत्यनेन नारीणां पातिव्रत्यमेव अवबुध्यते। उभयोः स्त्रीणाम् अवस्थाननिर्णयो हि मम शोधबन्धस्य उद्देश्यम् तथापि परिशेषे वक्तव्यं यदेकविंशशताब्द्याः द्वारप्रान्तमागत्य विष्णुस्मृति-विष्णुधर्मोत्तरपुराणयोः वर्णनानुसारं स्त्रीणां धर्मो युक्तो न वेति भाव्यम् इति संक्षेपः।