Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 1, Part A

ब्रह्माण्डपुराणे मोक्षस्य अवधारणा

तरणीकुमारपण़्डा

पुराणानि भारतीयसंस्कृतासाहित्यस्य प्राणभूतानि भवन्ति। भारतीय-सभ्यताचार-विचाराणां जनतायां येन साहित्येन प्रचारं कृतं, तत्तु पौराणिकं साहित्यम् एव। भारतीयसंस्कृते: धारकं वाहकञ्च भवति पुराणसाहित्यम्। अभिजात-आर्यचैतन्यस्य उत्समुखात् पुराणस्य कथासरितं प्रवाहितं भवति। यथा वैददिकधर्मस्य स्वरूपं ज्ञातुं वेदस्यास्ति अपेक्षा तथा धर्मशास्त्रस्य आवश्यकता विद्यते तथैव भारतस्यास्यतीतज्ञानाय अत्युपयोगिनां पुराणानां पर्यालोचनम् अनविार्यं वर्तते। वस्तुतस्तु भारतीयसंस्कृते: भव्यं रूपम् अस्मिन् साहित्ये चतुरस्रतया प्रफुल्लतां गतम् अवलोक्यते। भारतीयजनतासु धार्मिकविधानाय, सांस्कृतिककृत्याय, सामाजिकोपकाराय, आध्यात्मिकज्ञानाय च पुराणेभ्य:पर्याप्ता प्रेरणा प्राप्यते। तस्मात् पुराणसाहित्यं हि भारतस्यास्ति अमूल्यो निधि:।उच्यते- “पुरा नवं भवति इति पुराणम्।” संसारारण्येऽस्मिन् बंभ्रम्यमाणानां जीवानां कृते पुराणम् अस्ति सरल: आलोकमार्ग:। परमतत्वदृष्ट्या पुराणं हि अवश्यमेव मोक्षशास्त्रम्। अष्टादश पुराणेषु ब्रह्माण्डपुराणस्य एकं विशिष्टस्थानम् अस्ति। मोक्षप्रदायके,सर्वपापहरे अस्मिन् राजसिकपुराणे जीवस्य परमकाम्ये मुक्तिविषये विविधसरलमार्गस्य वार्ता उद्घोष्यते। धर्मादिषु चतुर्बिधपुरुषार्थेषु मोक्ष:हि परम: पुरुषार्थ:। मोक्षशब्दस्य पर्यायवाचकशब्द: भवति मुक्ति:। का भवति मुक्ते: संज्ञा? उच्यते यदा जीव: भोगासक्तिसम्पन्नं जड़देहं त्यत्त्त्वा आत्मस्वरूपं जानाति तदा तस्य मुक्तिर्भवति। भागवतपुराणे उल्लिखितम् अस्ति- “मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थिति:।” (२/१०/६) वस्तुतस्तु जीव: अविद्यावशात् करोति तदर्थं स पुन: पुन: जन्ममरणचक्रम् याति आयाति च। संसारपाशेन आवद्ध: सन् जीव: बहुविधं दु:खं सहते। केवलं ब्रह्माण्डपुराणस्य निर्देशितमार्गेण तद्दु:खम् सुकरभावेन निराकृतं भवति अर्थात् जीव: मुक्तिभाक् भवति। तस्मात् अस्य पुराणस्य उपदेश: सर्वथा पालनीय:। अत्र तत्त्वज्ञान - योग- इन्द्रियसंयम- ध्यान -समत्वभाव- प्रणवमन्त्रज्ञान -अध्ययन-वंशचरितादिभि: जीवस्य मोक्षलाभविषयो वर्णित: भवति। अपि च तर्पण-देवप्रन्नताविधान- विप्रसेवा-तीर्थस्नान - व्रतानुष्ठान-उपदेशपालन -नारीसम्मानप्रदर्शन- स्मरणाादिभि: उपायै: रम्यभावेन मुक्ते: आलोचनं प्राप्यतेऽस्मिन् पुराणे। शोधसन्दर्भेऽस्मिन् स्वचिन्तनं मया उपस्थाप्यते ।
Pages : 07-10 | 811 Views | 124 Downloads
How to cite this article:
तरणीकुमारपण़्डा. ब्रह्माण्डपुराणे मोक्षस्य अवधारणा. Int J Sanskrit Res 2020;6(1):07-10.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.