Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 6, Part B

प्रशिक्षणमहाविद्यालये रचनावादिशिक्षकः

पियाली मालाकार

गुरुब्रह्मा गुरुविष्णुर्गुरुर्देवो महेश्वरः । गुरुस्साक्षात्परं ब्रह्म तस्मै श्री गुरवे नमः ।। यतः शिक्षैव समुत्तमनागरिकान् निर्माति । तैश्च राष्ट्रवैभवं प्रगतिश्च सम्पाद्येते । शैक्षिको विकासः आधेयः । तत्र चाधिकरणं भवति शिक्षकसमाजः । अतः ज्ञानसंक्रमणकलायां दक्षतां सम्पादयितुम् अध्यापनकौशलानि ज्ञापयितुं विद्यालय तथा कक्ष्याव्यवहारं शिक्षयितुम्, अधिकारिभिः व्यवहारनैपुण्यं कारयितुं छात्रसर्वाङ्गीणविकासचातुर्यं बोधयितुं सामाजिकावश्यकतानुगुणं छात्रान् निर्मातुं शिक्षकाणां कृते या विशिष्टा व्यवसायिकी शिक्षा दीयते, सा भवति शिक्षकशिक्षा । अतः अस्माभिः समुत्तमैः शिक्षकैः भाव्यम् । एतदर्थं देशे शिक्षकशिक्षायाः विकासाय सर्वकारीयप्रयासाः प्रशंसनीयाः । सम्प्रति देशे शिक्षकशिक्षायै निमित्त प्रशिक्षणस्य व्यवस्था प्रचलन्ती । तस्याः इमानि अधोलिखितानि आवश्यकतानि भवेयुः । यथा –  शिक्षणे छात्रध्यापकस्य आस्थायाः विश्वासस्य च विकसनम् ।  छात्राध्यापकानां कक्ष्याशिक्षणाय सम्यग्ज्ञानप्रदानम् ।  छात्राध्यापकानां विविधशिक्षणकौशलानि अभिज्ञाप्य तेषां सम्यगुपयोगाय प्रशिक्षणदानम् ।  अध्यापने छात्रस्तरानुगुणविधीनां दृश्यश्रव्योपकरणानां चयनाय उपयोगाय च छात्राध्यापकेषु दक्षतासम्पादनमादि च । रचनावादे शिक्षणस्य काश्चन लक्ष्यानि परिदृश्यन्ते यैः शिक्षार्थीणां मानसिकक्षमता बर्द्धयति, तानि –  रचनावादे छात्राः स्वविचारशक्तेः प्रयोगं कर्त्तुं शक्नुवति ।  समालोचनात्मिका चिन्तान् कर्त्तुं समर्थः भविष्यति ।  स्मृत्यौ संरक्षिततथ्यानां पुनः स्मरणं कर्त्तुं शक्नुवति ।  धीशक्तेः प्रयोगः व्यवहारक्षमतायाः बृद्धिं कर्त्तुं शक्नुवति । शिक्षणव्यवस्थायां परिवर्तनं दरीदृश्यते । यतः अहं सर्वे जानीमः अस्माकं शिक्षणव्यवस्था त्रिमुखी प्रक्रिया एव - शिक्षकः, शिक्षार्थी, पाठक्रमश्च । तत्र छात्राः पञ्चदशवर्षयावत् केवलमेव शिक्षकानां पाठं शृण्वन्ति, पाठक्रममायत्तं कुर्वन्ति, तदपि श्रेण्या उत्तीर्णाय नूतनज्ञानायत्तकरणाय पाठं पठन्ति । परन्तु केवलमेव शिक्षकशिक्षणमहाविद्यालये अवकाशः मिलति यत्र छात्रेभ्यः पठनेन सह पाठनस्य सुविधा मिलति । वयं सर्वे जानीमः प्रशिक्षणमहाविद्यालये छात्राणां छात्राध्यापकः नाम्ना अभिधीयन्ते । यत्र छात्रा केवलं न छात्राः, अध्यापकोऽपि । यत्र छात्राः अध्यापकानां भूमिकां पालयन्ति ।
Pages : 104-106 | 716 Views | 93 Downloads
How to cite this article:
पियाली मालाकार. प्रशिक्षणमहाविद्यालये रचनावादिशिक्षकः. Int J Sanskrit Res 2019;5(6):104-106.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.