Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part F

गरुड़पुराणे मोक्षस्य अवधारणा

तरणीकुमारपण्डा

संस्कृतसाहित्यवारिधे: महामूल्यं रत्नं भवति पुराणशास्त्रम्। भारतीय-सभ्यताचार-विचाराणां जनतायां येन साहित्येन प्रचारं कृतं, तत्तु पौराणिकं साहित्यम् एव। साहित्येऽस्मिन् वेद-विहितानां धर्माणांसुखबोध्यभाषायां वर्णनं प्राप्यते। तस्मात् धार्मिकदृष्ट्या पुराणानामस्ति अधिकं महत्त्वम्। उच्यते- “पुरा नवं भवति इति पुराणम्।” संसारारण्येऽस्मिन् बंभ्रम्यमाणानां जीवानांकृते पुराणम् अस्ति सरल: आलोकमार्ग:। परमतत्वदृष्ट्या पुराणं हि अवश्यमेव मोक्षशास्त्रम्। अष्टादश पुराणेषु गरुड़पुराणस्य एकं विशिष्टस्थानम् अस्ति। मोक्षप्रदायके,सर्वपापहरे अस्मिन् पुराणेजीवस्य परमकाम्ये मुक्तिविषये विविधसरलमार्गस्य वार्ता उद्घोष्यते। का भवति मुक्ते: संज्ञा?उच्यते यदा जीव: भोगासक्तिसम्पन्नं जड़देहं त्यत्त्त्वा आत्मस्वरूपं जानाति तदा तस्य मुक्तिर्भवति। भागवतपुराणे उल्लिखितम् अस्ति-
“मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थिति:।”
वस्तुतस्तु जीव: अविद्यावशात्करोति तदर्थं स पुन: पुन: जन्ममरणचक्रम् याति आयाति च। संसारपाशेन आवद्ध: सन्जीव: बहुविधं दु:खं सहते। केवलं गरुड़पुराणस्य निर्देशितमार्गेण तद्दु:खम् सुकरभावेन निराकृतं भवति अर्थात्जीव: मुक्तिभाक् भवति। तस्मात् अस्य पुराणस्य उपदेश: सर्वथा पालनीय:। वस्तुतस्तु जीव: अविद्यावशात्करोति तदर्थं स पुन: पुन: जन्ममरणचक्रम् याति आयाति च। संसारपाशेन आवद्ध: सन्जीव: बहुविधं दु:खं सहते।केवलं गरुड़पुराणस्य निर्देशितमार्गेण तद्दु:खम् सुकरभावेन निराकृतं भवति अर्थात्जीव: मुक्तिभाक् भवति। तस्मात् अस्य पुराणस्य उपदेश: सर्वथा पालनीय:। अत्रसन्न्यासग्रहण-व्रतानुष्ठान-तीर्थसेवन-सत्कर्मानुष्ठान-श्राद्धदान-अनशनव्रत-पुत्रोत्पादन-दान-नामसंकीर्तन-भक्ति-प्राणोत्सर्गेादिभि:सुकरुपायै: जीवस्य मुक्तिवर्णनम् अस्ति।शोधसन्दर्भेऽस्मिन् स्वचिन्तनं मया उपस्थाप्यते ।
Pages : 341-347 | 745 Views | 93 Downloads
How to cite this article:
तरणीकुमारपण्डा. गरुड़पुराणे मोक्षस्य अवधारणा. Int J Sanskrit Res 2019;5(4):341-347.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.