Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part F

हरिवाक्यसुधासिन्धौ वैराग्यस्वरूपविवेचनम्

साधुः शुकमुनिदासः

तत्र भगवता श्रीस्वामिनारायणेन दुर्गपट्टण-सारङ्गपट्टण-श्रीनगरादिषु अनेकेषु स्थलेषु स्वीयभक्तानुग्रहार्थं मुहुर्मुहुः प्रवासाः कृताः। एतादृशप्रवाससन्दर्भेषु तत्तत्स्थलेषु भक्तानुग्रहार्थम्, तान् (भक्तान्) एकीकृत्य, तेषां मनस्सु विद्यमानानां भागवतधर्म-वेदान्ततत्त्वादिविषयकाणां सन्देहानां विषये प्रश्नान् कर्तुं श्रीस्वामिनारायण-भगवान् चोदयति स्म। ततः तैः पृष्टानां प्रश्नानामुत्तरदानव्याजेन वेद-वेदान्त-भगवद्गीता-स्मृतिपुराणादि-प्राचीनग्रन्थेषु, तदपेक्षयाऽर्वाचीनग्रन्थेष्वपि विद्यमानाः मुमुक्षुजनावश्यंवेद्याः शतशो विषयाः स्वामिनारायणभगवता सर्वजनसुग्राह्यतया प्रतिपादिताः। स्वामिनारायणभगवतः भगवदवताररूपत्वात् श्रीहरिः इत्येवापरं नाम। तादृश-स्वामिनारायणापरपर्यायस्य श्रीहरेः वाक्यानि सुधायन्ते = अमृतायन्ते, अमृतत्वापरपर्यायमोक्षप्राप्तिहेतुभूतत्वात्। एतादृशहरिवाक्यसुधायाः न बिन्दुः, न वा कासारः, स्वामिनारायणभगवता अवतारितः, किन्तु, अनेकमुक्तारत्नाख्यमहासिन्धुरेव तैरवतारितः, यस्य अतिगभीरत्वम्, अतिविस्तृतत्वं च सिन्धुरितिव्यपदेशेनैव सुष्ठु संवेद्यम्। अतः तादृशविशेषणविशिष्टः अतिसम्मान्योऽयं ‘हरिवाक्यसुधासिन्धुः’ इति सुगृहीतनामधेयः ग्रन्थविशेषः। अयं च ग्रन्थः श्रीस्वामिनारायणभगवत्साक्षाच्छिष्येण शतानन्दमुनिनाम्ना, तत्तद्विषयाणां भगवत्स्वामिनारायणकथनावसर एव यथायथं संगृहीतः, श्रीस्वामिनारायणभगवतः सुसम्मतः च सन्, तदीयपरम्परागतविद्वद्भिरनुसन्धेयतया निर्दिष्टः। अन्वर्थतया समुद्रायमाणेऽस्मिन्ग्रन्थे सन्ति नैके वेदान्ततत्त्व-भक्तितत्त्व-ज्ञानतत्त्व-मोक्षतत्त्वादिविषयकाः अंशाः। एतेषु इतरसर्वविषयापेक्षया भागवतधर्मविषये विशेषतः प्रतिपादनं साङ्गोपाङ्गतया कृतं दरीदृश्यते। प्रकृते लेखे अस्मिन् ग्रन्थे प्रतिपादितवैराग्यस्वरूपमधिकृत्य विचारः क्रियते।
Pages : 324-329 | 683 Views | 59 Downloads
How to cite this article:
साधुः शुकमुनिदासः. हरिवाक्यसुधासिन्धौ वैराग्यस्वरूपविवेचनम्. Int J Sanskrit Res 2019;5(4):324-329.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.