Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2018, Vol. 4, Issue 4, Part C

अध्यारोपापवादौ ।

स्वामी वेदार्थानन्दः

अद्वैततत्त्वम् अध्यारोपापवादन्यायेन बोधयन्ति श्रुतयः आचार्याश्च । निष्प्रपञ्चस्य ब्रह्मणः स्वरूपम् बोधयितुं शास्त्राचार्याः नानाविधान् धर्मान् अध्यारोपयन्ति अपवदन्ति च। अत्र रज्जुसर्पन्यायः दृष्टान्तीभवति। उपनिषत्सु सृष्टिश्रुतिभिश्च अध्यारोप एव कृतः। तत्र जगत्सृष्टिः विवर्तोऽस्ति, न तु परिणामः इति बोधनेन श्रुत्या अपवादोऽपि क्रियते । भाष्यकारभगवत्पादानामुक्तयः अत्र श्रुतितात्पर्यनिर्णयाय उपकुर्वन्ति। एवं स्थिते वेदान्तेषु सर्वत्रापि अध्यारोपापवादप्रक्रिया एव नानाविधैः आकारभेदैः ब्रह्मप्रबोधनाय समाश्रिता इति आधुनिकाः केचन आचार्याः अभिप्रयन्ति । तेषु सच्चिदानन्देन्द्रसरस्वतीस्वामिनः प्रमुखाः। वेदान्ततत्त्वप्रबोधनाय शङ्करभगवत्पादैः सर्वत्र अध्यारोपापवादौ एव समाश्रितौ इति सच्चिदानन्दसरस्वतीस्वामिनः द्रढयन्ति। एतेषामाचार्याणाम् मते अध्यारोपापवादस्थले सर्वदाऽपि ब्रह्मैव अधिष्ठानम् भवेदित्यपि नास्ति नियमः॥
Pages : 137-144 | 827 Views | 85 Downloads
How to cite this article:
स्वामी वेदार्थानन्दः. अध्यारोपापवादौ ।. Int J Sanskrit Res 2018;4(4):137-144.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.