Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 6, Part A

संस्कृतस्य प्राचीननाटककाराणां कृतिषु राष्ट्रिय भावना

भावना शुक्ला

संस्कृतसाहित्यं निजनगरिमा विषये न केवलं भारतवर्षे अपितु अखिलसंसारे विख्यातमस्ति। विश्वस्य विद्वत्मण्डलम् एकस्वरेण अस्य महिमा गायति। किन्तु दुर्भाग्यस्य विषयः अस्ति यत् अस्माकमेव देशे अनेके जनाः सन्ति; ये इदं साहित्यं केवलं ‘रोमानी’ अस्ति इति संज्ञां दत्वा अद्यतनस्य संघर्षशीलसमाजस्य कृते अयं सर्वथानुपयोगीति वदन्ति। एतस्य प्रचारं-प्रसारमनावश्य्कमिति साधयन्ति। किन्तु प्रत्यक्षे किं प्रमाणम्भास-कालिदास-शूद्रक-विशाखदत्त-भवभूति-भारवि-माघ-भट्टि-श्रीहर्ष-सुबन्धु-दण्डी-बाण-हर्ष प्रभृतयः स्वनामधन्यकवयः निज़कृतिषु न केवलं साहित्यिक सौन्दर्यमपितु भारतीयसंस्कृतिसभ्यतायाः निदर्शनं राष्ट्रियभावनायाः पोषणमपि च कुर्वन्ति स्म। समाजोपयोगितत्त्वैः परिपूर्णमिदं साहित्यं प्राच्यपाश्चात्ययोः द्वयोरपि कृते सर्वदौबहुमूल्यं भविष्यति।तदअस्माकं संस्कृतसाहित्यकारेषु अनेकाः नाटककाराः सन्ति येषां कृतिषु राष्ट्रियभावनायाः सुमधुरं स्वरः श्रूयते। तेषां भासः- कालिदासः -विशाखदत्तः -भवभूतिः- मुरारिः-अनन्तभट्टः-क्षेमेन्द्रः-श्रीहर्ष-विद्यापतिः-नयन चन्द्रसूरिः-चन्द्रशेखरः‘- वेङ्कटाध्वरिः-देवराजशर्मा-देवराजशास्त्री इत्यादयः उल्लेखनीयाः सन्ति। किन्तु अतिविस्तारभयेन अस्मिन् शोधपत्रे केवल भासं कालिदासं विशाखदत्तं भवभूतिं च विवेचनार्थं स्वीकरोमि।
Pages : 07-09 | 1216 Views | 138 Downloads
How to cite this article:
भावना शुक्ला. संस्कृतस्य प्राचीननाटककाराणां कृतिषु राष्ट्रिय भावना. Int J Sanskrit Res 2016;2(6):07-09.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.